|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.116. अध्यायः 116
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति भकगवद्भक्तिसौशील्याद्यभावे ब्राह्मणानामपि अग्निहोत्रस्वाध्यायाध्ययनादिसत्कर्मणामपि वैफल्यस्य शूद्राणामपि भक्त्यादिमतां स्वोचितकिंचित्कर्मणामपि साफल्यस्य च कथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर।
यत्कर्म सफलं नेति कथयस्य ममानघ॥ 14-116-1(96800)
भगवानुवाच। 14-116-2x(8013)
शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम्।
सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते॥ 14-116-2(96801)
त्रिदण्डधारणं मौनं जटाधारणमुण्डनम्।
वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम्॥ 14-116-3(96802)
अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया।
सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः॥ 14-116-4(96803)
अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च।
शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम्॥ 14-116-5(96804)
क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्।
तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः॥ 14-116-6(96805)
अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन्।
उपवासरतान्दान्तांस्तादेवा ब्राह्मणान्विदुः॥ 14-116-7(96806)
न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः।
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः॥ 14-116-8(96807)
मनश्शौचं कर्मशौचं कुलशौचं च भारत।
शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम्॥ 14-116-9(96808)
पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते।
हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः॥ 14-116-10(96809)
अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः।
वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः॥ 14-116-11(96810)
यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः।
विकर्मसेवी कौन्तेय स वै वृषल उच्यते॥ 14-116-12(96811)
वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम्।
वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि॥ 14-116-13(96812)
स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः।
न तु मां स्तौति पापात्मा स तु चण्डालतः समः॥ 14-116-14(96813)
श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा।
दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा॥ 14-116-15(96814)
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश॥ 14-116-16(96815)
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत।
उत्पन्नानि पवित्राणि भुवनार्थं तथैव च॥ 14-116-17(96816)
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर।
सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत। 14-116-18(96817)
श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव॥
गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः। 14-116-19(96818)
प़ञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदातन।
स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत्॥ 14-116-20(96819)
मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः।
नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः॥ 14-116-21(96820)
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान्।
अवमानात्पतन्त्येव नरके रौरवे नराः॥ 14-116-22(96821)
मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम।
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः॥ 14-116-23(96822)
कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम्।
ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम्॥ 14-116-24(96823)
पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा।
ददाति मम शूद्रो यच्छिरसा धारयामि तत्॥ 14-116-25(96824)
विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान्।
तेषां तेनैव रूपेण पूजां गृह्णामि भारत॥ 14-116-26(96825)
वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम्।
मामर्चयन्ति ये पिप्रा मत्सायुज्यं व्रजन्ति ते॥ 14-116-27(96826)
मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया।
प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर॥ 14-116-28(96827)
आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति।
तेनैव परितुष्टोऽहं भविष्यामि न संशयः॥ 14-116-29(96828)
मृदा च मणिरत्नैश्च ताम्रेण रजतेन च।
कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा।
पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम्॥ 14-116-30(96829)
जपकामो भवेद्राजा विद्याकामो द्विजोत्तमः।
वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः।
सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः॥ ॥ 14-116-31(96830)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षोडशाधिकशततमोऽध्यायः॥ 116 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|